परिचय
शिव-पार्वती संवाद के रूप में गणेश जी से ऋण (कर्ज़) दूर करने की प्रार्थना।
महत्व
बुधवार और चतुर्थी को पढ़ने की परंपरा है।
श्री गणेश · स्तोत्र · कृष्णयामल तंत्र
सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टम्।
ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम् ॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥१॥
त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥२॥

हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥३॥
महिषस्य वधे देव्या गणनाथः प्रपूजितः।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥४॥
तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥५॥
भास्करेण गणेशो हि पूजितश्छविसिद्धये।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥६॥
शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥७॥
पालनाय च तपसां विश्वामित्रेण पूजितः।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥८॥
इदं त्वृणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम्।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥९॥
दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ॥१०॥
॥इति श्रीकृष्णयामलतन्त्रे उमामहेश्वरसंवादे ऋणहर्तृगणेशस्तोत्रं सम्पूर्णम्॥
शिव-पार्वती संवाद के रूप में गणेश जी से ऋण (कर्ज़) दूर करने की प्रार्थना।
बुधवार और चतुर्थी को पढ़ने की परंपरा है।